Japanese · Long Text · Sanskrit Texts

Japanese Ms. Long Text (Jb)

Transcribed from Shaku Hannya (1923) ‘The Prajna-Paramita-Hridaya Sutra,’ The Eastern Buddhist. 2(3&4): 163-175.

Checked against Müller, Max. (1881) ‘The Ancient Palm Leaves containing the Prajñāpāramitā-Hṛidaya Sūtra and Uṣniṣa-vijaya-Dhāraṇi.’ in Buddhist Texts from Japan (Vol 1.iii). Oxford University Press. Online: http://archive.org/details/buddhisttextsfr00bhgoog

MS brought to Japan from China in ninth century by Yeun, disciple of Kukai.

॥  प्रज्ञापारमिताहृदयसूत्रं ॥

एवं मया श्रुतम । एकस्मिन्समये भगवान्राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्ध महता च बोधिसत्वसंघेन[1] | तेन खलु समयेन भगवान्गम्भिरावसंबोधं नाम समाधिं समापन्नः । तेन च समयेनार्यावलोकितेश्वरो बोधिसत्वो महासत्वो गम्भिरायां प्रज्ञापारमितायां चर्यां चरमाण एवं व्यवलोकयि स्म । पञ्च स्कन्धाः । तांश्च स्वभावशून्यान्व्यवलोकयति । अथायुष्माञ्छारिपुत्रो बुद्धानुभावेनार्यावलोकितेश्वरं बोधिसत्वमेतदवोचत् । यः कश्चित्कुलपुत्रो गम्भिरायां प्रज्ञापारमितायां चर्यां चर्तुकामः कथं शिक्षितव्यः । एवमुक्त आर्यावलोकितेश्वो बोधिसत्वो महासत्व आयुष्मन्तं शारुपत्रमेतदवोचत् । यः कश्विच्छारिपुत्र कुलपुत्रोवा कुलदुहिता वा गम्भिरायां प्रज्ञापारमितायांचर्या चर्तुकामसनैवं व्यवलोकियतव्यम् । पञ्चस्कन्धाः । तांश्च स्वभावशून्यान्समनुपश्यति स्म । रूपं शून्यता शून्तैव रूपम् । रूपान्न पृथक् शून्यता शून्यताया न पृथग्रूपम् । याद्रूपं सा शूनयता या शून्यता तद्रूपम् । एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता । एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला अनूना असंपूर्णाः । तस्मात्तर्हि शारिपुत्र शून्यतायां ना रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् । न चक्षुर्न श्रोत्रं न घ्राणण न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः । न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः ॥

न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः । न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः । तस्माच्छारिपुत्त अप्राप्तित्वेन बोधिसत्वानां प्रज्ञापारमितामाश्रित्य विहरय्याचित्तावरणः । चित्तावरणनास्मित्वादत्रस्मो विपर्यासातिक्रान्तो निष्ठनिर्वाणः । त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्ररां सम्यक्संबोधिमभिसंबुद्धाः । तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यमन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनम्त्र सत्यममिथयत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः । तद्यथा । गते गते पारगते पारसंगते बोधि स्वाहा ॥

एव शारिपुत्र गमभिरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्वेना । अथ खलु भगवान्तस्मात्समाधेर्व्युत्थायार्यावलोकितेश्वरस्य बोधिसत्वस्य साधुकारमदात् । साधु साधु कुलपुत्त एवमेतत्कुलपुत्र । एवमेतद्गमभिरायां प्रज्ञापारमितायां चर्यं चर्तव्यं यथा त्वया निर्दिष्टमनुमोद्यते तथागतैरर्हद्धिः । दमवोचद्धगवानानन्दमना आयुष्माञ्छारिपुत्र आर्यावलोकितेश्वरश्च बोधिसत्वः सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन् ।

॥ इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम् ॥

Notes.

[1] Almost all Buddhist texts spell bodhisatva with one t. It’s not clear why, although the akṣara ttva is awkward to write in Brahmī/Siddham script (it’s easy in Devanāgarī). However, it is routine for editors to silently amend the spelling to the Pāṇinian standard spelling –sattva.  This is poor editorial practice and I have retained the more authentic spelling. Note ārya is almost always spelled ārya and is also silently amended.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s